|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.53. अध्यायः 053
Mahabharata - Sabha Parva - Chapter Topics
कृष्णेन बालकैः सह विहृत्य कालियमर्दनम्॥ 1॥ बलरामेण धेनुकासुरहननम्॥ 2॥ कृष्णेन गोवर्धनोद्धरणम्॥ 3॥ अरिष्टासुरादिहननम्॥ 4॥ मधुरायां कंसं हत्वा पित्रोः पादाभिवन्दनम्॥ 5।
Mahabharata - Sabha Parva - Chapter Text
भीष्ण उवाच।
ततः कदचिद्गोविन्दो ज्येष्ठं सङ्कर्षणं विना।
चचार तद्वनं रम्यं सुस्वरूपो वराननः॥ 2-53-1(13433)
काकपक्षधरः श्रीमाञ्छ्यामः पद्मनिभेक्षणः।
श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा॥ 2-53-2(13434)
रज्जुयज्ञोपवीती स पीताम्बरधरो युवा।
श्वेतचन्द्रनलिप्राङ्गो नीलकुञ्चितमूर्धजः॥ 2-53-3(13435)
राजता बर्हिपत्रेण मन्दमारुतकम्पिना।
क्वचिद्गायन्क्वञ्चित्क्रीडन्क्वचिन्नृत्यन्क्वचिद्धसन्॥ 2-53-4(13436)
गोपवेणुं सुमधुरं कामं तदपि वादयन्।
प्रह्लादनार्थं च गवां क क्वचिद्वनगतो युवा॥ 2-53-5(13437)
गोकुले मेघकाले तु चचार द्युतिमान्प्रभुः।
बहुरम्येषु देशेषु वनस्य वनराजिपु॥ 2-53-6(13438)
तासु कृष्णो मुदा युक्तः क्रीडयन्भरतर्षभ।
स कदाचिद्वने तस्मिन्गोभिः सह परिव्रजन्॥ 2-53-7(13439)
भाण्डीरं नाम दृष्ट्वाऽथ न्यग्रोधं केशवो महान्।
तच्छायायां मतिं चक्रे निवासाय तदा प्रभुः॥ 2-53-8(13440)
स तत्र वयसा तुल्यैर्बत्सपालैस्तदाऽनघ।
रेमे स दिवसं कृष्णः पुरा स्वर्गगतो यथा॥ 2-53-9(13441)
तं क्रीडमानं गोपालाः कृष्णं भाण्डीरवासिनः।
रमयन्ति स्म बहवो मान्यैः क्रीडनकैस्तदा॥ 2-53-10(13442)
अन्ये स्म परिगायन्ति गोपा मुदितमानसाः।
गोपालकृष्णमेवान्ये गायन्ति स्म वनप्रियाः॥ 2-53-11(13443)
तेषां सङ्गायतामेव वादयामास केशवः।
पर्णवाद्यान्तरे वेणुं तुम्बवीणां च तत्र वै॥ 2-53-12(13444)
एवं क्रीडान्तरैः कृष्णो गोपालैर्विजहार सः।
तेन बालेन कौन्तेय कृतं लोकहितं तदा॥ 2-53-13(13445)
पश्यतां सर्वभूतानां वासुदेवेन भारत।
ह्रदे निपातता तत्र क्रीडितं नागमूर्धनि॥ 2-53-14(13446)
शासयित्वा तु कालीयं सर्वलोकस्य पश्यतः।
विजहार ततः कृष्णो बलेदवसहायवान्॥ 2-53-15(13447)
धेनुको दारुणो राजन्दैत्यो रासभविग्रहः।
तदा तालवने राजन्बलदेवेन वै हतः॥ 2-53-16(13448)
ततः कदाचित्कौन्तेय रामकृष्णौ वनं गतौ।
चारयन्तौ प्रवृद्धानि गोधनानि शुभाननौ॥ 2-53-17(13449)
विहरन्तौ मुदा युक्तौ वीक्षमाणौ वनानि वै।
श्वेलयन्तौ प्रगायन्तौ विचिन्वन्तौ च पादपान्॥ 2-53-18(13450)
नामभिर्व्याहरन्तौ च वत्सान्गाश्च परन्तपौ।
चेरतुर्लोकसिद्धाभिः क्रीडाभिरपराजितौ॥ 2-53-19(13451)
तौ देवौ मानुषीं दीक्षां वहन्तौ सुरपूजितौ।
तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम्॥ 2-53-20(13452)
एवं बाल्येऽपि गोपालैः क्रीडाभिश्च विजह्रतुः॥ 2-53-21(13453)
ततः कृष्णो महातेजास्तदा गत्वा तु गोव्रजम्।
गिरियज्ञं तमेवैष प्रवृत्तं गोपदारकैः॥ 2-53-22(13454)
बुभुजे पायसं शौरिरीश्वरः सर्वभूतकृत्।
तं दृष्ट्वा गोपकाः सर्वे कृष्णमेव समर्चयन्॥ 2-53-23(13455)
पूज्यमानस्तदा देवैर्दिव्यं वपुरधारयत्।
धृतो गोवर्धनो नाम सप्ताहं पर्वतो धृतः॥ 2-53-24(13456)
शिशुना वासुदेवेन गवार्थमरिमर्दन।
क्रीडमानस्तदा कृष्णः कृतवान्कर्म दुष्करम्॥ 2-53-25(13457)
तदद्भुतमतीवासीत्सर्वलोकस्य भारत।
देवदेवः क्षितं गत्वा कृष्णं नत्वा मुदान्वितः। 2-53-26(13458)
गोविन्द इति तं ह्युक्त्वा ह्यभ्यषिञ्चत्पुरन्दरः।
इत्युक्त्वाश्लिष्य गोविन्दं पुरुहूतोभ्ययाद्दिवम्॥ 2-53-27(13459)
अथारिष्ट इति ख्यातं दैत्यं वृषभविग्रहम्।
जघान तरसा कृष्णः पशूनां हितकाम्यया॥ 2-53-28(13460)
केशिनामा ततो दैत्यो राजंस्तुरगविग्रहः।
तथा वनगतं पार्थ गजायुतबलं हयम्॥ 2-53-29(13461)
कराम्भोरुहवज्रेण जघान मधुसूदनः।
अथ मल्लं तु चाणूरं निजघान महाऽसुरम्॥ 2-53-30(13462)
सुदामानममित्रघ्न सर्वसैन्यपुरस्कृतम्।
बालरूपेण गोविन्दो निजघान च भारत॥ 2-53-31(13463)
बलदेवेन चायत्नात्समाजे मुष्टिको हतः।
ताडितश्च सहामात्यः कंसः कृष्णेन भारत॥ 2-53-32(13464)
हत्वा कंसममित्रघ्नः सर्वेषां पश्यतां तदा।
अभिषिच्योग्रसेनं तं पित्रोः पादमवन्दत। 2-53-33(13465)
एवमादीनि कर्माणि कृतवान्वै जनार्दनः॥ ॥ 2-53-34(13466)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि त्रिपञ्चाशोऽध्यायः॥53 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|